loading

अथ बुधस्तोत्रम्

  • Home
  • अथ बुधस्तोत्रम्
श्रीगणेशाय नमः ॥
बुधो बुद्धिमतां श्रेष्ठ बुद्धिदाता धनप्रदः । प्रियंगुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥१॥ ग्रहोत्तमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्द्धनः ॥२॥
चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानीनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ||३|| लोकप्रियः सौम्यमूर्तिर्गुणदो गुणवत्सलः । पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥४॥ स्मृत्वाबुधं सदा तस्य सर्व पीडा विनश्यति ।
तद्दिने वापठेद्यस्तु लभते स मनोगतम् ॥५॥
इति श्रीपद्मपुराणे बुधस्तोत्रम् सम्पुर्णम् शुभम् ।
X