loading

सङ्कटमोचन हनुमानाष्टकम्

  • Home
  • Blog
  • सङ्कटमोचन हनुमानाष्टकम्

सङ्कटमोचन हनुमानाष्टकम्

ततः स तुलसीदासः सस्मार रघुनन्दनम् । हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥ धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः । रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥ ॐ हनुमानञ्जनी सूनो वायुपुत्रो महाबलः । महालाङ्गूल निक्षेपैर्निहताखिल राक्षसाः ॥ ३॥ श्रीराम हृदयानन्द विपत्तौशरणं तव । लक्ष्मणे निहिते भूमौ नीत्वा द्रोणाचलं युतम् ॥ ४॥ यया जीवित वा नाद्य ता शक्तिं प्रकटीं कुरु । येन लङ्केश्वरो वीरो निःशङ्कः विजितस्त्वया ॥ ५॥ दुर्निरीक्ष्योऽपिदेवानी तद्बलं दर्शयाधुना ॥ ६॥ यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकी स्वयं । रावणांतः पुरेऽत्युग्रेतां बुद्धिं प्रकटी कुरु ॥ ७॥ रुद्रावतार भक्तार्ति विमोचन महाभुज । कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम् ॥ ८॥ इत्यष्टकं हनुमतः यः पठेत् श्रद्धयान्वितः । सर्वकष्ट विनिर्मुक्तो लभते वाञ्च्छितफलम् ॥ ग्रहभूतार्दितेघोरे रणे राजभयेऽथवा । त्रिवारं पठेनाच्छ्रीघ्रं नरो मुच्येत् सङ्कटात् ॥ ॥ इति श्रीगोस्वामितुलसीदास विरचितं श्रीहनुमान्नाष्टकं सम्पूर्णम् ॥
X