अथ बृहस्पतिस्तोत्रम् ॥
श्रीगणेशाय नमः ॥
“गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदाम्बरः ।
वागीशो धिषणो दीर्घश्मश्रु पीताम्बरो युवा ॥ १ ॥ सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुंकुमद्युतिः ॥२॥
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवेद्य पितामहः || ३॥
” भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान्पुत्रवान् स भवेन्नरः ॥४॥
जीवेद् वर्ष शतं मर्त्यः महापातकः नश्यति ।
यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥५॥
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः ॥६॥
इति श्रीस्कन्दपुराणे बहस्पतिस्तोत्रम् सम्पुर्णम् शुभम् ।